॥ धातुप्रत्ययगतानामनुबन्धानां प्रयोजनानि॥

धातुगतानामनुवन्धानां विचारः कियते ।

 

'एध वृद्धौ' इत्यादीनां धातूनामनुदात्तोऽच् एघते इत्यादिषु ' अनुदात्तङित्त आत्मनेपदम् ' (१.३.१२) इत्यात्मनेपदार्थः, उदात्तस्तूचारणार्थ एवेति ध्येयम् । वृतु वर्तने' इत्यादिषु हलादिषु चानुदात्तोऽच्  'अनुदात्तेतश्च हलादेः ' (३.२.१४९) इति युजर्थः वर्तनः । यज देवपूजासङ्गतिकरणदानेषु' इत्यादिषु च स्वरितोऽच् ' स्वरितञितः कर्त्रभिप्राये क्रियाफले' (१.३.७२) इत्युभयपदार्थः - यजति, यजते ।'त्रिमिदा स्नेहने' इत्यादिष्वाकारः 'आदितश्च' (७.२.१६) इति निष्ठाया इण्निषेधार्थः- मिन्नः । 'टुणदि समृद्धौ' इत्यादिष्विकारः  'इदितो नुम् धातोः ’(७.१.५८) इति नुमर्थः ‘ अनिदितां हल उपधायाः क्ङिति ’(६.४. २४) इति नलोपनिषेधार्थश्च -नन्द्यते ।'दीपी दीप्तौ' इत्यादिष्वीकारः  'श्वीदितो निष्ठायाम्' (७.२.१४) इति इण्निषेधार्थः - दीप्तः । 'शमु उपशमे' इत्यादिषु उकारः  'उदितो वा ' (७.२.५६) इति क्त्वायामिड्विकल्पार्थः - शमित्वा, शान्त्वा । 'गुपू रक्षणे' इत्यादिषु उकारोऽपि  'स्वरतिसूतिसूयतिधूञूदितो वा’ (७.२.४४) इति इड्विकल्पार्थः- गोप्ता, गोपिता। 'बाधृ लोडने' इत्यादिषु ऋकारः ' नाग्लोपिशास्वृदिताम् ’ (७.४.२) इति चङ्परे णावुपधाह्रस्वनिषेधार्थः - अवबाधत्। 'गम्लृ गतौ' इत्यादिषु लृकारः  'पुषादिद्युताद्यॢदितः परस्मैपदेषु ’(३.१.५५) इति च्लेरङादेशार्थः - अगमत्। ‘स्थगे संवरणे' इत्यादिष्वेकारः ' ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ’ (७.२.५) इतीडादौ सिचि वृद्धिप्रतिषेधार्थः - अस्थगीत्। 'रुजो भङ्गे' इत्यादिष्वोकारः ' ओदितश्च ' (८.२.४५) इति निष्ठातस्य नकारादेशार्थः - रुग्णः । 'इक् स्मरणे' इत्यत्र ककारः  'अधीगर्थदयेशां कर्मणि ’(२.३.५२) इत्यत्रेगिति विशेषणार्थः । 'शीङ् स्वप्ने' इत्यादिषु ङकारः  'अनुदात्तङित आत्मनेपदम् ' (१.३.१२) इत्यात्मनेपदार्थः -शेते,'चक्षिङ् व्यक्तायां वाचि' इत्यादिषु ' तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः ’ (६.१.१८६) इत्यनुदात्तत्वार्थश्च - अभिचष्टे । 'षुञ् अभिषवे' इत्यादिषु ञकारः ‘ स्वरितञितः कर्त्रभिप्राये क्रियाफले ' (१.३.७२) इत्युभयपदार्थः - सुनोति, सुनुते ।'जॄष् वयोहानौ' इत्यादिषु षकारः ' षिद्भिदादिभ्योऽङ् ’ (३.३.१०४) इति स्त्रियामङ्प्रत्ययार्थः - जरा। 'धेट् पाने' इत्यत्र टकारानुवन्धः  'विभाषा घ्राधेट्शाच्छासः ' (२.४.७८) इति सिचो वा लुगर्थः - अधात्, अधासीत्; 'विभाषा धेट्श्व्योः (३.१.४९) इति वा च्लेश्वङादेशार्थः - अदधत्, अधात्, 'पाघ्राध्माधेदृशःशः (३.१.१३७) इति शप्रत्ययार्थश्च- धयः । वस्तुतस्तु धेटष्टित्त्वमवयवेऽचरितार्थत्वात् 'स्तनन्धयी' इति समुदाये ' टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (४.१.१५) इतिङीबर्थमिति क्षीरस्वामिप्रभृतयः । तत्रापि हरदत्तस्तु - स्तनन्धयीत्यत्रैव डीबिष्यते नान्यत्रेत्याहुः इति प्राह । ‘दाणे दाने' इत्यत्र णकारः  'पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः ’ (७.३.७८) इति शिति यच्छादेशार्थः -यच्छति,‘ दाणश्च सा चेच्चतुर्थ्यर्थे ’(१.३.५५) इत्यात्मनेपदार्थश्च - दास्या संयच्छते । अत्रापि‘दाणः’ इति सानुबन्धकनिर्देशाद्यङ्लु‌कि नायमात्मनेपदविधिरिति माधवः - दास्या मालां सम्प्रदादाति सम्पदादेति वा। इण् गतौ' इत्यत्र तु णकारः 'इणो यण्’ (६.४.८१) इति यणादेशार्थः- यन्ति,‘ इणो गा लुङि ' (२.४.४५) इत्यादिषु गाद्यादेशार्थः - अगात,‘ इण्नश्जिसर्त्तिभ्यः क्वरप् ’(३.२.१६३) इति क्वरबर्थश्च - इत्वरः। ‘देप् शोधने, दाप् लवने' इत्यत्र पकारः  'दाधा घ्वदाप्’ (१.१.२०) इति धुसंज्ञायामदाबिति प्रतिषेधार्थः। ‘दैप् शोधने’ इत्यत्र पकार एव लाक्षणिकानां दोदेङ्धेटामपि दाधाशब्देन ग्रहणे लिङ्गमिति माधवादीनामाशयः, अन्यथा तु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणं नतु लाक्षणिकस्य' इति नियमात्तेषामग्रहणप्रसङ्गात् । टुवेपृ कम्पने' इत्यादिषु टुशब्दः ' ट्वितोऽथुच् (३.३.८९) इत्यथुजर्थः - वेपथुः। 'डुपचष् पाके' इत्यादिषु डुशब्दश्व  'ड्वितःक्त्रिः (३.३.८८) इति क्तिप्रत्ययार्थः - पवित्रमम् ।'ञिमिदा स्नेहने' इत्यादिषु ञिशब्दः ‘ ञीतः क्तः ’ (३.२.१८७) इति वर्तमाने क्तप्रत्ययार्थः - मिन्नः। रुधिर् आवरणे' इत्यादिष्विर्-शब्दः ‘ इरितो वा ' (२.१.५७) इति वा च्लेरङादेशार्थः - अरुधत्, अरौत्सीत्। इति धातुगतानामनुबन्धानां विचारः ।

 

अथ प्रत्ययादिगतानामनुवन्धानां विचारः - इयसुनादिषु उकारः ' उगितश्च ' (४.१.६) इति ङीबर्थः- श्रेयसी,' उगितश्च ' (६.३.४५) इति विकल्पेन ह्रस्वार्थश्च - श्रेयसितरा, श्रेयसीतरा। कु-चु-टु-तु-पु इत्येतेषु उकारः  'अणुदित्सवर्णस्य चाप्रत्ययः (१.१.६९) इति सवर्णग्रहणार्थः  -  कुहोश्चुः (७.४.६२); सर्वादिगणे

भवतु इत्यत्र च उकारः ' उगितश्च ' (४.१.६) इति डीबर्थः - भवती। 

 

शतृ इत्यत्र ऋकारः ' उगितश्च ' (४.१.६) इति ङीबर्थः - पचन्ती ।

 

क्तादिषु कृत्सु ककारः  'क्क्ङिति च (१.१.५) इति गुणवृद्धिनिषेधार्थः - मृष्टः, वच्यादीनाम् 'वचिस्वपियजादीनां किति ’ (६.१.१५) इति ग्रह्यादीनां च  'ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च ’ (६.१.१६) इति संप्रसारणार्थश्च - उक्तः, गृहीतः,‘ अनुनासिकस्य क्विझलोः क्ङिति ’(६.४.१५) इत्यनुनासिकान्तस्योपधादीर्घार्थश्च -शान्तः,‘ च्छ्वोः शूडनुनासिके च' (६.४.१९) इति च्छस्य शादेशार्थः वस्योडादेशार्थश्च - पृष्टः, द्यूतः, 'अनिदितां हल उपधायाः क्ङिति ’(६.४.२४) इति नलोपार्थश्च -ध्वस्तः, 'अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति ’ (६.४.३७) इत्यनुनासिकलोपार्थश्च -यतिः, 'जनसनखनां सञ्झलोः ’ (६.४.४२) इत्यात्त्वार्थश्च - जातिः, 'घसिभसोर्हलि च ' (६.४.१००) इत्युपधालोपार्थश्च - सग्धिः, 'द्यतिस्यतिमास्थामित्ति किति ’ (७.४.४०) इत्यारभ्य 'अच उपसर्गात्तः' (७.४.४७)इत्यन्तप्रकरणोक्तेत्त्वादिकार्यार्थश्च - दित इत्यादि,‘ ये विभाषा ' (६.४.४३) इति विकल्पेनात्त्वार्थश्च - जायते, जन्यते, 'घुमास्थागापाजहातिसां हलि ’ (६.४.६६) इतीत्त्वार्थश्च - दीयते,  'अयङ् यि क्ङिति ’(७.४.२२) इत्यारभ्य ' अकृत्सार्वधातुकयोर्दीर्घः ’(७.४.२५) इत्यन्तप्रकरणोक्तायङादिकार्यार्थश्च - शय्यते इत्यादि, 'अदो जग्धिर्ल्यप्ति किति ' (२.४.३६) इति अदो जग्धिभावार्थश्च - जग्धः,सृजिदृशोः ‘ सृजिदृशोर्झल्यमकिति ' (६.१.५८) इत्यमादेशप्रतिषेधार्थश्च-सृष्टम्, दृष्टम् । ढगादिषु तद्धितेषु ककारः  'किति च ' (७.२.११८) इत्यादिप्रकरणस्थवृद्धयर्थः ' कितः ' (६.१.१६२) इत्यन्तोदात्तत्वार्थश्च - आग्नेयः, षुगादिष्वागमेषु च  'आद्यन्तौ टकितौ ' (१.१.४६) इत्यन्तावयवत्वार्थः - भीषयते ।

 

ग्स्नुप्रत्यये गकारः  'क्ङिति च' (१.१.५) इति गुणवृ‌द्धिनिषेधार्थः - जिष्णुः ।

 

यङादिषु ङकारः  'अनुदात्तङित आत्मनेपदम् ' (१.३.१२) इत्यात्मनेपदत्वार्थः -पापठ्यते,‘ अनिदितां हल उपधायाः क्ङिति ’(६.४.२४) इत्युपधानलोपार्थश्च -सनीस्त्रस्यते, 'ये विभाषा' (६.४.४३) इति विकल्पेनात्त्वार्थश्च - जाजायते, जञ्जन्यते, 'घुमास्थागापाजहातिसां हलि ’ (६.४.६६) इतीत्त्वार्थश्च -देदीयते, 'अयङ् यि क्ङिति ’(७.४.२२) इत्यारभ्य ' अकृत्सार्वधातुकयोर्दीर्घः ’ (७.४.२५) इत्यन्तप्रकरणोक्तायङादिकार्यार्थश्च - शाशय्यते इत्यादि, अङ्प्रत्ययेतु ‘ आतो लोप इटि च ’(६.४.६४) इत्यालोपार्थश्च -प्रदा। अनङित्यादिष्यादेशेषु तु ‘ ङिच्च ’ (१.१.०५३) इत्यन्त्यादेशार्थः- सखा,ङे इत्यादिषु विभक्तिषु तु ‘ ङिति ह्रस्वश्च’ (१.४.६) इति नदीसंज्ञाविकल्पार्थः -श्रियै, श्रिये, ‘ घेर्ङिति ’ (७.३.१११) इत्यारभ्य ‘ विभाषा द्वितीयातृतीयाभ्याम् ’(७.३.११५) इत्यन्तप्रकरणोक्तगुणादिकार्यार्थश्च-हरये, महिङादिषु च ‘ सुप्तिङन्तं पद‌म् ’ (१.४.१४) इत्यादिषु तिङ्‌प्रत्याहारार्थः,लडादिषु तु ‘ नित्यं ङितः’ (३.४.९९) इति सलोपार्थः - अभवाम, ‘ इतश्च ’ (३.४.१००) इति इकारलोपार्थश्च -अभवत्, ‘ तस्थस्थमिपां तांतंतामः ’ (३.४.१०५) इति तसादीनां तामादेशार्थश्च - अभवताम् । 

 

घुरजादिषु कृत्सु चकारः ‘ चितः ’ (१.१.१६०) इत्यन्तोदात्तत्वार्थः -भुङ्गुरम्,च्फञादिषु तद्धितेषु च ‘ तद्धितस्य ’ (६.१.१६१) इत्यन्तोदात्तत्वार्थः - क्रौञ्चायुनाः ।

 

यञादिषु तद्धितेषु ञकारः ‘ तद्धितेष्वचामादेः ' (७.२.११७) इत्यादिप्रकरणस्थवृद्ध्यर्थः ' ञ्नित्यादिर्नित्यम् ’ (६.१.१९४) इत्याद्युदात्तत्वार्थश्च -गार्ग्यः, घञादिषु कृत्सु तु  'अचो ञ्णिति ' (७.२.११५) इति वृद्ध्यर्थः- कारः, 'अत उपधायाः' (७.२.११६) इत्युपधावृद्ध्यर्थश्च -पाकः,‘ हो हन्तेर्ञ्णिन्ने ' (७.३.५४) इति कुत्वार्थश्च - घातः,‘ गाङ्कुटादिभ्योऽञ्णिन्ङित् ’ (१.२.१) इति ङित्त्वप्रतिषेधार्थश्च- उत्कोटो वर्तते,फिञादिषु आादिषु च च ‘ ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ' (२.४.५८) इत्यणः लुगर्थः-तैकायनेरपत्यं तैकायनिः,ष्फञादिषु विकारावयवार्थकप्रत्ययेषु तु  'ञितश्च तत्प्रत्ययाद् ’ (४.३.१५५) इत्यञर्थः - शामीलम् (शम्याः ष्यञ्)।

 

टादिषु प्रत्ययेषु टकारः ‘ टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः ’(४.१.१५) इति डीबर्थः - कुरुचरी (चरेष्ठः'); इडादिष्यागमेषु टकारः  'आद्यन्तौ टकितौ ' (१.१.४६) इत्याद्यवयवत्वार्थः -भविता, औडित्यत्र विभक्तौ तु ' सुडनपुंसकस्य ' (१.१.४३) इति सुट्‌प्रत्याहारार्थः,लडादिषु च  'टित आत्मनेपदानां टेरे ' (३.४.७९) इत्येत्वार्थः -एधते, 'थासः से ' (३.४.७९) इत्यनेन थासः से इत्यादेशार्थः- एधसे ।

 

डजादिषु डकारः  'ति विंशतेर्डिति' (६.४.१४२) इति तिलोपार्थः-आसन्नविंशाः, 'टेः ' (६.४.१४३) इति टिलोपार्थश्च -अधिकचत्वारिंशाः ।

 

ण्वुलादिषु कृत्सु णकारः  'अत उपधायाः ' (७.२.११६) इत्युपधावृद्ध्यर्थश्च -पाचकः,‘ हो हन्तेर्ञ्णिन्नेषु ’ (७.३.५४) इति कुत्वार्थश्च -घातकः, अणादिषु तद्धितेषु तु ' तद्धितेष्वचामादेः ' (७.२.११७) इत्यादिप्रकरणस्थवृद्ध्यर्थश्च - औपगवः,णिजादिषु तु ‘ गाङ्कुटादिभ्योऽञ्णिन्ङित् ’ (१.२.१) इति ङित्त्वप्रतिषेधार्थश्च- उत्कोटयति ।

 

व्यदादिषु तकारः ' तित्स्वरितम् ' (६.१.१८२) इति स्वरितार्थः - कार्यम् । 'अदेङ् गुणः ' (१.१.२) इत्यादिष्वदादिषु तकारः ' तपरस्तत्कालस्य ' (१.१.७०) इत्युच्चार्यमाणसमकालस्यैव सवर्णस्य संज्ञार्थः,तथाच 'अत्' इति हस्वस्याकारस्यैव सानुनासिकाननुनासिकोदात्तानुदात्तस्वरितभेदेन षड्भेदभिन्नस्य संज्ञा।

 

वुनादिषु नकारः ' ञ्नित्यादिर्नित्यम् ' (६.१.१९४) इत्याद्युदात्तत्वार्थः -वासुदेवकः,क्तिनादिषु तकारादिषु कृत्सु तु  'तादौ च निति कृत्यतौ ’ (६.२.५०) इति गतेः प्रकृतिस्वरत्वार्थः- संगतिं गोः।

 

तिबादिषु पकारः  'अनुदात्तौ सुप्पितौ ' (३.१.४) इत्यनुदात्तत्वार्थः - न यो युच्छति,'सार्वधातुकमपित्' (१.२.४) इति ङित्त्वनिषेधार्थश्च -करोति, 'नाभ्यस्तस्याचि पिति सार्वधातुके ’ (७.३.८७) इत्यारभ्य ‘ यङो वा ’ (७.३.९४) इत्यन्तप्रकरणोक्तगुणप्रतिषेधादिकार्यार्थश्च -नेनिजानि इत्यादि,' भीह्रीभृहुवां श्लुवच्च ' (६.१.१८९) इत्यादिना प्रत्ययात्पूर्वस्योदात्तत्वार्थश्च- वि॒भेति॑, क्यबादिषु तु ‘ ह्रस्वस्य पिति कृति तुक् ’(६.१.७०) इति तुगर्थः -स्तुत्यः, सुपि विभक्तौ तु  'सुप्तिङन्तं पदम्' (१.४.१४) इत्यादिषु सुप्प्रत्याहारार्थः ।

 

श्नामादिषु मकारः ' मिदचोऽन्त्यात्परः ' (१.१.४७) इत्यन्त्यादचः परावयवत्वार्थः- रुणद्धि । 

 

अनीयरादिषु रकारः ‘ उपोत्तमं रिति' (६.१.२१४) इत्युपोत्तमस्योदात्तत्वार्थः - करणीय॑म् । 

 

ण्वुलादिषु लकारः ' लिति ' (६.१.१९०) इति प्रत्ययात्पूर्वस्योदात्तत्वार्थः - चिकीर्षकः ।

 

इशादिष्वादेशेषु शकारः ' अनेकाल्शित्सर्वस्य ' (१.१.५५) इति सर्वादेशार्थः- इह,शबादिषु विकरणेषु शकारः ' तिङ्शित्सार्वधातुकम् ' (३.४.११३) इति सार्वधातुकसंज्ञार्थः - रोदिति (रुदादिभ्यः सार्वधातुके इति इट्),‘ ष्ठिवुक्लमुचमां शिति ’ (७.३.७५) इत्यारभ्य ' मिदेर्गुणः ' (७.३.८२) इत्यन्तप्रकरणस्थह्रस्वत्वदीर्घत्वगुणार्थश्च - पुनाति, ष्ठीवति, मेद्यति, एजन्तस्य धातोः  'आदेच उपदेशेशिति ’ (६.१.४५) इत्याकारादेशप्रतिषेधार्थश्च -ग्लायति,शपि शकारः 'शद्लृ शातने' इति धातोः ‘ शदेः शितः ' (१.३.६०) इत्यात्मनेपदार्थश्च-शीयते ।

 

ष्वुनादिषु षकारः ' षिद्गौरादिभ्यश्च ' (४.१.४१) इति ङीषर्थः- नर्तकी ('शिल्पिनि ष्वुन्')। 

 

छसादिषु सकारः  'सिति च (१.४.१६) इति पदत्वार्थः - भवदीयः ।