॥मङ्गलाचरणम्॥
वाणीविनायकौ वन्दे गौरीमहेश्वरौ वरौ।
लक्ष्मीनारायणौ दिव्यौ मातृपितृजनौ हितौ ॥
यज्ञोदानतपः क्रियाः सुचरिता ह्युच्चार्य यज्ज्ञानिनां,
यस्योच्चारणमाश्रयश्चितिधिये देहाभिमानं त्यजेत् ।
यस्मिन्नेव समाहिताश्च निखिला वाण्यो नृकण्ठोदिता
ध्यायेद् विश्वहिरण्यगर्भसुवशीत्याख्यं तदेकाक्षरम् ॥
महामहोपाध्यायद्विवेदी विन्ध्येश्वरीप्रसादश्च ।
पूज्य-बृद्धपितामहो विद्याशोधसुकृती विद्वान् ॥
श्रीरामनाथपौत्रेण कृष्णारामात्मजेन हि ।
स्याद् रूपदीपिका दीप्ता रामानन्दद्विवेदिना ॥
पिता प्राक्पदमाकल्प्य चाग्रे मामादिशत् तथा ।
लोकहितां पितुराज्ञां कर्तुं मे द्विगुणं सुखम् ॥
पूर्वाचार्यैस्तु यत् प्रोक्तं चैषा तदंशदीपिका।
न प्रतिस्थापनायैषा किञ्चिदेवोपसाधिका ॥
॥रूपान्वितिः॥
पूरुषा हि त्रयो वाण्यामस्ति सः प्रथमः स्मृतः।
त्वमसि मध्यमो ज्ञेयश्चाहमस्मि तथोत्तमः ॥
वचांसि संस्कृते त्रीणि ह्येकः क्रीडति बालकः ।
क्रीडतो बालकौ द्वौ च क्रीडन्ति बहुबालकाः ॥
लिङ्गानि नामतस्त्रीणि पुंस्त्वं स्त्रीत्वं नपुंसकम् ।
एको बालः फलं चैकमेका च बालिका तथा ॥
वर्तते देववाण्यां न लिङ्गभेदस्तिङन्तके ।
पठति बालकः पाठं तथा पठति बालिका ॥
कारके वचने लिङ्गे विशेषण-विशेष्ययोः ।
साम्यं यथा नवो बालो नवा बाला नवं फलम् ॥
॥शब्दरूपम्॥
॥कोऽयम्॥
कोऽयम् पठति सभ्राता कं तं पाठयते गुरुः ।
केन सुचरितो धर्मः कस्मै च रोचते धनुः ॥
कस्माद् दूरं द्विषो यान्ति कस्यैव भ्रातरस्त्विमे ।
कस्मिन् शक्तिः छविः शीलमेतद् ब्रूहि समासतः ॥
योऽसौ पठति सभ्राता यं तं पाठयते गुरुः ॥
येन सुचरितो धर्मः यस्मै च रोचते धनुः ॥
यस्माद् दूरं द्विषो यान्ति यस्यैव भ्रातरस्त्विमे ।
यस्मिन् शक्तिः छविःशीलं स श्रीरामः प्रकीर्तितः॥
॥संज्ञा॥
रामः पठति सभ्राता रामं पाठयते गुरुः ।
रामेण चरितो धर्मः रामाय रोचते धनुः ॥
रामाद् दूरं द्विषो यान्ति रामस्य भ्रातरस्त्विमे ।
रामे शक्तिः छवि: शीलं हे राम, सर्वतो जहि ॥
कृष्णः क्रीडति बालेषु कृष्णं माता प्रपश्यति ।
कृष्णेन गूंजिता वंशी दधि कृष्णाय रोचते ॥
कृष्णाद् दूरं भयं सर्व कृष्णस्य सुहृदस्त्विमे ।
कृष्णे शोभा बलं बुद्धिः हर्ष हे कृष्ण ! वर्धय ॥
उदयते हरिः प्रातः वन्दन्ते ऋषयो हरिम् ।
हरिणा मोदते लोको हरये चार्ध्यमर्पितम् ॥
हरेः प्रकाशमाप्नोति चारोग्याय हरेः प्रभा ।
हरौ श्रद्धा ध्रुवा मे स्याद् धियं प्रेरय हे हरे ॥
उदयते रविः प्रात: वन्दन्ते ऋषयः रविम् ।
रविना मोदते लोको रवये चार्ध्यमर्पितम् ॥
रवेः प्रकाशमाप्नोति चारोग्याय रवेः प्रभा।
रवी श्रद्धा ध्रुवा मे स्याद् धियं प्रेरय हे रवे ॥
भानुरुदयते प्रातः भानुं हि वन्दते ऋषिः ।
भानुना मोदते लोको भानवे चार्ध्यमर्पितम् ॥
भानोः प्रकाशमाप्नोति भानोश्वारोग्यदा प्रभा ।
भानौ श्रद्धा ध्रुवा मे स्याद् भानो, प्रेरय मे धियम् ॥
भगवान् भावनीयो हि भगवन्तं भजे त्वहम् ।
भगवता जगद् भाति भगवते नमो नमः ॥
भगवतो नृसम्बन्धः सर्वे भगवतो जनाः।
भगवति रतिर्मे स्याद् भगवन् मां समुद्धर ॥
वन्द्या रमा रमां वन्दे श्रीरस्तु रमया सह ।
विष्णुभक्तिप्रदा तस्मात् रमायै सततं नमः ॥
रमायाः कार्यसंसिद्धिः रमायाः स्वजने कृपा ।
रमायां हि गुणाः सर्वे हे रमे देहि मे वरम् ॥
का निहन्ति दुराचारं कां हि देवाः स्तुवन्ति वै।
कया कृतानि कर्माणि कस्यै भूयो नमोनमः ॥
कस्याः प्राप्नोति संसिर्द्धि कस्याः स्तुतिर्भयापहा ।
कस्यां ध्रुवा सतां श्रद्धा चैतद् ब्रूहि समासतः ॥
या निहन्ति दुराचारं यां हि देवाः स्तुवन्ति वै ।
यया कृतानि कर्माणि यस्यै भूयो नमो नमः ॥
यस्याः प्राप्नोति संसिर्द्धि यस्याः स्तुतिर्भयापहा ।
यस्यां ध्रुवा सतां श्रद्धा सा हि देवी प्रकीर्तिता ॥
देवी हन्ति दुराचारं देवी देवाः स्तुवन्ति वै।
देव्या कृतानि कर्माणि देव्यै तस्यै नमो नमः॥
देव्याः प्राप्नोति संसिर्द्धि देव्याः स्तुतिर्भयापहा ।
देव्यां श्रद्धा दृढ़ा मे स्याद् हे देवि, देहि मे वरम् ॥
पवित्रं परमं ज्ञानं श्रद्धावाञ्ज्ञानमृच्छति ।
ज्ञानेनैव भयं नष्टं विद्या ज्ञानाय वाच्छिता ॥
ज्ञानाद् ऋते न मुक्तिः स्यात् निष्ठा ज्ञानस्य मे भवेत् ।
ज्ञाने समाप्यते कर्म हे ज्ञान, तिमिरं हर ॥
ब्रह्मैकं विभुरात्मा वै किं भयं ब्रह्मजानतः ? ।
जानाति ब्रह्मणा सर्वं सर्वं हि ब्रह्मणे प्रियम् ॥
न ब्रह्मणः परं किञ्चित् ब्रह्मणो नेशितादयः।
ब्रह्मणि द्योश्च भूः प्राणाः हे ब्रह्मन् दूरयद्विधाम् ॥
॥सर्वनामानि अहम्॥
अहं स्मरामि श्रीरामं मां रक्षतु रघूत्तमः ।
मया चाराधितो देवः मध्यं भक्तिं प्रयच्छतु ॥
कुतर्को यातु मद्दूरं श्रद्धाऽस्तु हृदये मम ।
राघवेन्द्रो रमानाथो रामो मयि प्रसीदतु ॥
॥त्वम्॥
त्वं माता च पिता त्वं वै त्वां जाते बन्धुमात्मनः ।
धतं त्वयात्मनीनत्वं तुभ्यं सख्यपदं प्रदम् ॥
त्वदन्यत् किं धनं चेह विद्यारूपं तवैव हि।
त्वयि तिष्ठति वै श्रेयः त्वं सर्वं मम हे प्रभो ॥
॥उपपदीया अपि विभक्तयः॥
॥प्रथमा॥
प्रभू राम इति ख्यातो लक्ष्मणो नाम चानुजः ।
स भाति वन्द्यते सोऽपि हे राम, सततं जय ॥
॥द्वितीया॥
रामं पश्यति कौशल्या रामं प्रश्नं च पृच्छति ।
सरामं शोभते सीता राममनु च लक्ष्मणः ॥
रामो याति वने क्रोशं रामं गच्छन्ति वै जनाः।
रामं च लक्ष्मणं चैव ह्यन्तरा याति जानको ॥
श्रीराम परितो वीराः श्रीरामं निकषा कपिः ।
राममधिवसत्येव श्रीर्विजयो धृतिर्मतिः॥
यत्सुखं परमं लोके न राममन्तरेण तत् ।
तं रामं शरणं यामि रामं प्रति निवेदये ॥
॥तृतीया॥
रामेण सह वै सीता धर्मसंस्थापनेच्छया।
वनं याति तथा तत्र वसति तेन हेतुना ॥
रामः साधुः प्रकृत्या च जटाभिश्च प्रतीयते ।
जयन्तश्चक्षुषा काणो लब्ध्वा रामेण वै क्षमाम् ॥
दुःखेन स ह्यनिर्विष्णो नाम्ना रामो नरोत्तमः।
रामेण लभते सौख्यं रामेण रावणो हतः॥
श्रीरामेण विना सौख्यं लभ्यते न कथञ्चन ।
रामेण किमिति ज्ञात्वा रामेणालं सते न हि ॥
श्रीरामेण विहीनस्य किं वृथा जीवितेन च ।
रामेण सदृशो नास्ति बन्धुरन्यः कुतश्चन ॥
॥चतुर्थी॥
रामाय दीयते राज्यं वनं रामाय रोचते ।
घारयामश्च रामाय सौख्यं रामाय वै नमः॥
रामाय द्रुह्यति द्वेषी स च रामाय कुप्यति ।
प्रभवति तथा रामो रावणाय न संशयः॥
रामाय चानसूयन्तः रामार्चनाय प्रस्तुताः ।
धर्माचारोऽस्ति रामाय रामाय स्पृहयाम्यहम् ॥
॥पञ्चमी॥
कश्चिद् रामाद्गरीयान्न नास्ति रामाद् द्वितीयकः ।
रामाद्दूरं द्विषो रामात् कस्य हर्षो न जायते ॥
पूर्व राज्याभिषेकाद्धि रामाद् दुष्टो विलीयते ।
निवारयति सः पापाज् जनः पापाज्जुगुप्सते ॥
रामात्सर्व च गृह्णाति रामाद् विना कुतः सुखम् ।
आमूलाद्धि कथां श्रुत्वा रामादन्यश्च नेप्सितः॥
॥षष्ठी॥
आविर्भावश्च रामस्य हेतोर्धर्मस्य नान्यथा ।
तुल्यो नास्ति च रामस्य रामस्य बहवो गुणाः॥
श्रीरामस्य कृते वीराः वानराश्च युयुत्सवः ।
श्रीरामस्य सकाशं च दूरं च प्रसृतो मुदा ॥
रामस्य वामतः सीता दक्षिणतश्व लक्ष्मणः।
पुरतो मारुतिस्तस्य तस्य स्मरामि सर्वदा॥
॥सप्तमी॥
वनं गच्छति रामे च प्रस्थिता जानकी मुदा।
शस्त्रे दक्षो हरिः हन्ति मायामृगं च चर्मणि ॥
जटा च शोभते रामे रामो लग्नो रणे तथा।
श्रीरामे चागते युद्धाद् मोदन्ते सकला जनाः ॥
मोक्षे चेच्छास्ति चेत्तर्हि यत्ने कृते स सिद्धयति ।
रामेषु राधवः स्तुत्यो धृतो येन जनः करे ।
धन्यः स नृषु रामेण धृतः करेण यः करे ।
॥उत्तरस्थः पाठः॥
॥प्रथमा॥
प्रथमा नाममात्रे च सम्बोधने त्वितिग्रहे।
कर्तरि कर्तृवाच्यस्य कर्मवाच्यस्य कर्मणि ॥
॥द्वितीया॥
ऋतेविनादिभिर्योगे द्वितीया कर्मणीष्यते ।
धिक्प्रतीत्यादिभिश्चैव योज्या क्रियाविशेषणे ॥
॥तृतीया॥
तृतीया करणे योज्या कर्मवाच्यस्य कर्तरि ।
ऊनवारणहेत्वर्थैः सदृशार्थैः सहग्रहे ॥
॥चतुर्थी॥
चतुर्थी सम्प्रदाने च नमोयोगे तथाशिषि ।
रुच्यर्थानाञ्च सुप्रीतौ तादर्थ्ये च क्रियायुते ॥
॥पञ्चमी॥
पञ्चमी स्यादपादाने हेत्वर्थे तु विभाषया।
ऋतेपूर्वादिभिर्योगे ल्यबर्थे च भये तथा ॥
॥षष्ठी॥
षष्ठी योज्या तु सम्बन्धे कृदन्ते कर्तृकर्मणोः ।
तथा तुल्यार्थयोगे सा कृत्यानां कर्तृकारके ॥
॥सप्तमी॥
आधारे सप्तमी योज्या भावे तु कर्मयोजने ।
षष्ठी वा सप्तमी योज्या निर्धारे च ह्यनादरे ॥
॥उपसंहारः॥
विभक्तिकारके योज्या क्रमान, न कर्मवाच्यके ।
तृतीया कर्तरीहैव कर्मणि प्रथमा यथा ।
॥विभाषया॥
द्वितीया वा चतुर्थी वा विभक्तिश्व विभाषया ।
गत्यर्थकर्मणि स्याद्धि तु चेष्टायामनध्वनि ॥
ऋतेविनादिभिर्योगे द्वितीया वा च पञ्चमी ।
तृतीया पञ्चमी वा स्याद् हेत्वर्थे च विभाषया ॥
योज्या षष्ठी तृतीया वा कृत्यानां कर्तृकारके ।
तुल्यार्थेरतुलोपम्ये विभक्तिस्तद् विभाषया ॥
तृतीया सप्तमो वा स्यात् प्रसिते चोत्सुके तथा।
अनादरे च निर्धारे षष्ठो वा सप्तमी भवेत् ॥
॥तद्धितम्॥
वेद्यो हि धारणाद् धर्मः सत्यवर्मी सदा जयेत् ।
धर्म्यमेव हि कर्तव्यं भुवि धन्योस्ति धर्मवान् ॥
शब्दितं धार्मिकत्वं यद् धारयेत् सर्वमात्मवत् ।
स कुलीनो गुणी धीमान् धार्मिकतामयो हि यः ॥
वैष्णवो राघवं पश्येदेकाकिनमनेकधा।
विश्वं तदीयकं भाव्यं सर्वत्र धर्मतः सुखम् ॥
रुच्या धर्मधुरीणाय कौशल्येयस्य नीलिमा ।
विमलः श्यामलो ध्येयो विधिना येनकेनचित् ॥
नामैव महिमन् श्रेष्ठं चाद्यतनं सनातनम् ।
घार्यं महद् हरेर्नाम महत्तरं महत्तमम् ॥
॥धातुरूपंकृदन्तम्॥
रामस्य चरितं दिव्यं पाठ्यं सर्वविधं जनैः ।
पठनीयं समासेन पठितव्यं सविस्तरम् ॥
पठिष्यन् पाठकः पाठं पाठं-पाठं प्रपूरयेत् ।
श्रद्धया पठितं चेद्धि पठितवान् सुखी भवेत् ॥
गुरुणा पाठ्यते चैव स्वयं पठति भाग्यवान् ।
पाठयति स्वकं वत्सं चैव तैः पठ्यते कथा ॥
गुरुणा पाठ्यमानञ्च पठ्यमानं तथात्मना।
सुपाठ्यं सुपठं कुर्यात् पिपठिषेत् जन: सदा ॥
कथां पापठयते भक्तः पठनीयति भूयशः।
पठनं पाठनं कुर्वन् बोधयति परस्परम् ॥
पठितुं श्रद्धया गच्छेत् पठन् सन् श्रीहरिं स्मरेत् ।
आवर्तेत पठित्वेदं संपठ्य स्वं समुद्धरेत् ॥
॥तिङन्तम्॥
एक: पठति विद्वान् हि स्वल्पज्ञौ पठतश्च द्वौ।
पठन्ति बहवः छात्राः प्रसृतं वचनान्तरम् ॥
॥परस्मैपदे (पठ)प्रथमः पुरुषः॥
रामः पपाठ त्रेतायां वेदं गुरुगृहं गतः ।
अपठद् ह्यः कथां भक्तः प्रागपठीद् विचक्षणः ॥
देवदत्तः पठत्यद्य ताञ्च रामायणीं कथाम् ।
बाल: पठिष्यति ह्याशु पठिताग्ने नृसन्ततिः ॥
वृद्धः पठेद् विधिं दृष्ट्वा बालः पठतु चाज्ञया ।
शुभाशिषा युवा पठ्यात् पठतात् कामयेऽखिलः ॥
अविघ्नमभविष्यच्चेदपठिष्यत् स निश्चलः ।
भाग्येन लभ्यते जन्म वरेण पठ्यते कथा ।
॥मध्यमः पुरुषः॥
मन्ये जन्मान्तरे त्वञ्च पेठिथ श्रीहरेः कथाम् ।
अवश्यमेव त्वं चेह रामायणं पुराऽपठीः ॥
पूर्वे दिने तु बालेषु सुस्वरमपठस्तथा ।
पठस्यद्य कथां रम्यां त्वमेकाग्रतया त्विह ॥
शीघ्रमेव समारोहे पठिष्यसि कथां हरेः।
ईषद् दिनान्तरे चैव विद्वत्सु पठितासि त्वम् ॥
एवमेव त्वनिर्विण्णः शान्त्या हरेः कथां पठ।
युक्तमात्मप्रबोधाय त्वं पठेः वरदां कथाम ॥
प्रेरयत्वीश्वरो यत्त्वं पठ्याः सर्वहिताय वै ।
अविघ्नमभविष्यच्चेदपठिष्यस्त्वमव्यथः॥
॥उत्तमः पुरुषः॥
बाढं हि पपठाहञ्च जन्मान्तरे हरेः कथाम् ।
निस्सन्देहो हि प्रागेव रामायणमपाठिषम् ॥
अद्यतनाद्धि प्रागेव चापठं बालक्रीडनम् ।
साम्प्रतं तु पठाम्यद्य रामविवाहवर्णनम् ॥
शीघ्रमेव पठिष्यामि रामसुग्रीवमित्रताम् ।
पठितास्मि ततश्चाहं राज्याभिषेकमङ्गलम् ॥
आदिष्टवाहं तां पठानि च निरन्तरम् ।
रामस्य चरितं दिव्यं पठेयं युक्तमेव तत् ॥
विदधातु कृपामीशः पाठ्यासं भक्तितः सदा।
अविघ्नमभविष्यच्चेदपठिष्यं स्थिरं त्वहम् ॥
॥आत्मनेपदे (वृत्)प्रथमः पुरुषः॥
आत्मा हि ववृते चाग्रे निःसन्देहं युगात्पुरा ।
अवर्तत दिनात्पूर्वं चावर्तिष्टोदये रवेः ॥
स वर्तते समन्ताद्धि वर्तिष्यते त्वतः परम् ।
युगस्यास्यावशेषेऽपि वर्तिता स न संशयः॥
देहदृष्ट्योचितं केह नरो वर्तेत धर्मतः ।
ईश्वरस्याशिषा सोऽपि वर्तिषीष्ट सुकर्मणि ॥
अनुरुद्धो मया चैवमनासक्तः स वर्तताम् ।
अविघ्नमभविष्यच्चेत् सोऽवर्तिष्यत निश्चलः ॥
॥मध्यमः पुरुषः॥
त्वं हि ववृतिषे चाग्रे निस्सन्देहं युगात्पुरा।
अवर्तथा दिनात्पूर्व चावतिष्ठाः दिनोदये ॥
वर्तसे त्वं समन्ताद्धि वर्तिष्यसे त्वतः सरम्।
युगस्यास्यावशेषेऽपि वर्तितासे न संशयः ॥
देहदृष्ट्योचितं यत्त्वं वर्तेथाः धर्महेतवे।
शुभाशिषा सतां चैव वर्तीषीष्ठास्तु सत्पथे।
परामर्शोऽपि संघर्षे वर्तस्व निगतज्वरः ।
अविघ्नमभविष्यच्चेत्त्वमवर्तिष्यथाः स्थिरम् ॥
॥उत्तमः पुरुषः॥
अहं हि ववृते चाग्ने निःसन्देहं युगात्पुरा ।
प्रागुदयादवर्तेऽहं चावर्तिष्युदये रवेः ॥
वर्तेऽधुना समन्ताद्धि वर्तिष्येऽहमतः परम् ।
युगस्यास्यावशेषेऽपि वर्तिताहे न संशयः ॥
देहदृष्टयोचितं चाहं वर्तेय धर्महेतवे ।
विधेयादीश्वरो यच्च धर्मेऽहं वर्तिषीय हि ॥
आदिष्टवानहं वर्तं त्वनासक्तः सुकर्मणि ।
अविघ्नमभविष्यच्चेदवर्तिष्ये स्थिरं त्वहम् ॥
॥सोपसर्गसंज्ञा॥
जीवनस्यामुखे ह्येव प्राज्ञः स्यादीशसम्मुखः ।
कर्तव्यविमुखो न स्यान्नसंघर्षपराङ्मुखः ॥
स विकासोन्मुखो जोवो यो धर्माभिमुखो भवेत् ।
देवेशः सुमुखो यस्य घराणां प्रमुखश्च सः ॥
॥सोपसर्गेधातुः॥
यदा-यदा हि धर्मस्य ग्लानिर्भवति वै तदा।
आविर्भवति देवश्च पराभवति दुर्जनम् ॥
अभिभवति विनौघं परिभवति पातकम् ।
अनुभवन्ति जनाः सौख्यान प्रभवति सुखं सताम् ॥
संभवति हरिश्चैवं विभवन्ति मनीषिणः ।
प्रादुर्भवति सद्धर्मस्तिरोभवत्यसत्तथा ॥
॥गणविकरणाःपरस्मैपदे॥
भवति भूयते भूतः भूत्वा भवितुमीदृशम् ।
शब् विकरणकाः गुण्याः स्वादयः स्यु अ-धारकाः ॥
अत्ति चैवाद्यते जग्धः जग्ध्वा चात्तुं तथैव च ।
लुग-विकरणकाः ज्ञेयः शून्यधृताः अदादयः ॥
जुहोति हूयते हुत्वा हुतः होतुं यथाक्रमम् ।
श्लुविकरणको द्वित्वी जुहोत्यादिश्च शून्यधृत् ॥
दीव्यति दीव्यते द्युतः देवित्वा देवितुं तथा।
श्यन्-विकरणसंयुक्ताः दिवादयो य-धारकाः ॥
सुनोति सूयते सुत्वा सुतः सोतुं यथाक्रमम् ।
श्नू-विकरणकाश्चैवं स्वादयः स्युर्नु-धारकाः ॥
तुदति तुद्यते तुन्नस्नुत्त्वा तोत्तुमिति क्रमात ।
श-विकरणकाः ज्ञेयास्तुदादय अ-धारकाः ॥
रुणद्धि रुध्यते रुद्धः रुद्ध्वा रोद्धुमिति क्रमात् ।
श्नम्-विकरणसंयुक्ताः रुधादयो न-धारकाः॥
तनोति च तनित्वा च तनितुं तत तन्यते ।
उ-विकरणकाश्चैवं तनादय उधारकाः।
क्रीणाति क्रीयते क्रीतः क्रीत्वा क्रेतुं यथाङ्किताः ।
श्ना-विकरणसंयुक्ताः ना-धृतः क्रयादयः स्मृताः।
चोर्यते चोरयत्येव चोरयित्वा च चोरितः।
चोरयितुमिव स्वार्थणिजन्ताश्व चुरादयः॥
॥गणविकरणाःआत्मनेपदे ॥
वर्तते वत्त्यते वृत्त वृत्त्वा वर्तितुमीदृशम् ।
शब्-विकरणकाः गुण्याः भ्वादय आत्मनेपदे ॥
शयित शय्यते शेते शयित्वा शयितुं तत्क्रमम् ।
लुकविकरणकश्चैवमदादिरात्मनेपदे ॥
मीमीते मीयते मित्वा मितो मातुं तथेदृशम् ।
श्लु-विकरणको द्वित्वी जुहोत्याद्यात्मनेपदे ।
बुद्ध्यते बुद्ध्यते बुद्ध बुद्ध्वा बोद्धुं तथाक्रमम् ।
श्यन्-विकरणसंयुक्तो दिवादिश्चात्मनेपदे ॥
सुनुते सूयते सुत्वा सुतः सोतुं यथाक्रमम् ।
श्नु-विकरणके स्वादौ स्यू रूपाण्यात्मनेपदे ॥
तुदते तुद्यते तुन्नस्तुत्त्वा तोत्तुमिति क्रमात् ।
श-विकरणसंयुक्ते तुदादौ चात्मने पदे ॥
रुन्धे च रुद्ध्यते रुद्ध रुद्ध्वा रोद्धुमिति क्रमात् ।
श्नम्-विकरणसंयुक्तो रुधादिश्चात्मने पदे ॥
तनुते च तनित्वा च तनितुं तत तन्यते ।
उ-विकरणश्चैव तनादिश्वात्मने पदे ॥
क्रीणीते क्रीयते क्रीतः क्रीत्वा क्रेतुं यथाङ्कितम् ।
श्ना-विकरणसंयुक्ताः क्रयादयश्चात्मने पदे॥
चोरयते णिजन्तश्च चुरादिश्चात्मने पदे।
चोरितश्चोरयित्वा च चोरयितुं च चोर्यते ॥
॥सन्धि-विचारः॥
सन्निधौ स्युर्गणाध्यक्षः शारदा कमलासना।
ग्रहेन्द्रः सर्वभूतेशो नरोत्तम शुभोर्जितः॥
देवर्षिर्मानवश्चैवं मिथो भावैक्यन्क्षिताः।
वनौषधिः सुखार्थाय हर्रेनाम भवौषधम् ॥
श्रोहर्यर्चा च हर्याज्ञा हरीच्छा च हरीशिता ।
हर्युक्तिश्चैव हर्यूर्जा हर्येकता च हर्यृचा ॥
हर्येश्वयं च हर्योजो हमर्यौदार्यमिति क्रमात् ।
भान्वादयश्च शब्दास्तु सन्ध्यर्हाः स्युः शिशिक्षुभिः ॥
श्रीगुर्वर्चा च गुर्वाज्ञा गुर्विच्छा सद्धिताय हि ।
गुर्वीशिता गुरूक्तिश्च गुरुहा गुर्वृणं सरेत् ॥
गुर्वेकता सते स्याद्धि गुर्वैश्वयं तथैव च ।
गुर्वोज ऊर्ध्वमार्गत्वे गुर्वौदार्यमसक्तियुत् ॥
पित्रर्चा पूज्यपित्राज्ञा पित्रिच्छा सत्सुखाय वै।
पित्रीशिता च पित्रुक्तिः पित्रूर्जिता स्वशक्तयः ॥
पितॄणधारिता तस्मात् धार्या पित्रेकतो सदा ।
पित्रैश्वर्यं च पित्रोजः पित्रौदार्यं महत् मतम् ॥
धर्मेऽर्थों धर्म आमुक्तिः धर्म इष्टिः धर्म ईश्वरः ।
धर्म उत्साहवृद्धिः स्यात् ऋतऊर्जा ऋतयुतम् ॥
धर्म एकत्वप्राप्तिः स्यात् धर्म ऐश्वर्यसाधनम् ।
धर्म ओजस्तु प्राप्तव्यः धर्म औचित्यमीरितम्॥
गोऽर्चनं हि गवास्था च गाविष्टिश्च गवीक्षणम् ।
गवुत्सवः गवूर्जा च गवृणं च गवेषणम् ॥
गवैश्वयं गवोकश्च गवौदार्यमुदाहृतम् ।
तदंशुमान् तदात्मा च तदिन्द्रश्च तदीश्वरः॥
तदुपेन्द्रस्तदूर्ध्वस्थः तदृक् यजुश्व साम तत् ।
तदेको हि तदैक्यं च तदोङ्कारस्तदौषधम् ॥
तत्कृष्णस्तत्खरारिश्च तद्गुरुस्तद् धनेश्वरः।
तन्ङकारादयो वर्णाः, तच्चन्द्रस्तच्छबी रवेः ॥
तज्ज्योतिस्तज्झरो वै तट्टंकस्तट्ठक्कुरः स्मृतः ।
तड्डयने च पक्षीशस्तड्ढुण्डिराजरीरितः ॥
तत्तपः सर्वभृत्तत्थं तद्देवस्तधनुर्धरः ।
तन्नारायण उक्तश्च तत्पिता तत्फलाधिपः ॥
तद्ब्रह्मा चैव तद्भूभृत् तन्मातृका सुरेश्वरी ।
तद्योगेशश्च तद्रुद्रः तल्लक्ष्मी तद्विधायिनी ॥
तच्छं तत् षण्मुखो देवस्तद्धरिः सम्प्रकीर्तितः ।
रामोऽस्ति राम आस्ते च राम इच्छति शं नृणाम् ॥
श्रीराम ईक्षते सर्वान् राम उदेति पूर्णतः ।
राम ऊर्जास्ति लोकस्य राम ऋच्छति कोशले ॥
स राम एधते लोके राम ऐश्वर्यमेति च ।
राम ओजः प्रदाता च राम औदार्यशीलवान् ॥
रामः क्रीडति खेलं च रामो गच्छति वै वने ।
रामो घोषयते धर्म रामश्वरति चाश्रमम् ॥
रामश्छादयते भक्तान् रामो जयति सर्वदा ।
रामष्टीका नृपाणां तु रामो डम्भयते चमूः ॥
श्रीरामस्तारयत्याशु रामो ददाति पात्रताम् ।
रामोनमति गुरून सर्वान् राम पठ≍ति वै श्रुतीः॥
रामो बाधते विघ्नान् रामो मुञ्चति चाश्रितान् ।
रामो याति वनं रामो रणे च लभते जयम् ॥
रामो विशत्ययोध्यायां रामशंसति वै सखीन् ।
रामषट्पदो भाति भक्तानां हृदयाम्बुजे ॥
रामः स्फुरति भावेन रामो हरति खल्वधान् ।
रामः क्षात्रगुणोपेतो रामस्त्राता भवार्णवात् ॥
रामो ज्ञानं रति दत्ते जना अचरिता मुदाः ।
॥सन्धिः॥
माहेश्वरैर्हि सूत्रैश्च प्रोद्घाट्या नियमा बुधैः।
उदाहरणरीत्येह क्रमात् स्वल्पमुदीरितम् ॥
॥स्वरसन्धिः॥
॥ दीर्घसन्धिः॥
सवर्णे अचि परे चाको दीर्घादेशः सकृद्भवेत् ।
गणाध्यक्षो गिरीशश्च भानूदयस्तथैव च ॥
रामार्थाय रमार्थाय रामाज्ञया रमाज्ञया ।
गिरीशश्च भवानीशो हरोच्छया सुधीच्छया ।
विधूदयो लघूर्मिश्च भूर्द्ध्व भवेद् वधूत्सवः ।
अको दीर्घ सवर्णेऽचि चैवं पितॄणमीरितम् ॥
॥ यण्सन्धिः॥
इकः स्थाने च यण् स्याद्धि संहितायामचि त्विह ।
हर्यर्चनं च गुर्वाज्ञा पित्रादेशो यथाक्रमम् ॥
॥अयादिसन्धिः॥
क्रमादेचोऽयवायावश्च स्युरचि परे सति ।
शयनं भवनं चैव नायकः पावको यथा ॥
॥गुणसन्धिः॥
अचि परे ह्यवर्णात्तु स्यात् पूर्वपरयोर्गुणः ।
अदेङ् हि गुणसंज्ञः स्याद् योगेशः पुरुषर्षभः ॥
॥ वृद्धिसन्धिः॥
स्यादादेचि परे वृद्धिरेकादेशः प्रतिष्ठितः ।
आदैच्च वृद्धिसंज्ञ स्यात् कृष्णैकता भवौषधम् ॥
॥ पूर्वरूपसन्धिः॥
अन्त्यादेङोऽति पाश्चात्त्ये पूर्वरूपः प्रतिष्ठितः ।
यथा प्रयाणकालेऽपि दृष्टोऽन्तः दुःखहो भवेत् ॥
॥हल्सन्धिः॥
॥श्चुत्वसन्धिः॥
(स्तोः श्चुनाश्चुः)
सकारस्य तवर्गस्य शकारश्च चवर्गतः ।
शकारश्च चवर्गः स्तो योगे सच्चित् मनश्च तत् ॥
॥जश्त्वसन्धिः॥
(झलां जश् झशि, झलां जशोऽन्ते)
झशि परे झलां जश् स्यात् पदान्तेऽपि झलां जशः।
बोद्धव्यं लब्धिवत् पूर्व वागीशवदपरं तथा ॥
॥अनुनासिकसन्धिः ॥
(यरोऽनुनासिकेऽनुनासिको वा)
यरोऽनुनासिको वा स्यात् पदान्तस्यानुनासिके ।
वाङ्मयं षण्मुखश्चैव चिन्मयस्तदुदाहृतम् ॥
॥चर्त्वसन्धिः॥
(खरि च, झयो होऽन्यतरस्याम्)
हृत्स्थमुत्थानवच्च स्यूः खरिपरे झलां चरः ।
तद्धि पूर्वसवर्णः स्याज्झयः परस्य हस्य वा ॥
॥तोर्लि सन्धिः॥
तवर्गस्य लकारे च परसवर्ण उदीरितः ।
तल्लीनतां बृहल्लीलां श्रद्धावांल्लभते भुवि ॥
॥ष्टुत्वसन्धिः॥
(ष्टुनाष्टुः, चोः कुः)
ष्टुः स्याच्च स्तोः ष्टुना योगे दृष्ट: प्रवेष्टितो यथा।
चवर्गस्य कवर्गः स्यात् पदान्ते झलि मुक्तवत् ॥
॥ङमुट्-सन्धिः॥
(ङमो ह्रस्वादचि ङमुण्नित्यम्)
ह्रस्वात्परे ङमन्ताद्धि पदात्परस्य वै ह्यचः ।
स्याद् ङमुडागमो नित्यं कुर्वन्नपि पदं यथा ॥
॥विसर्गसन्धिः॥
(विसर्जनीयस्य सः)
खरि विसर्जनीयस्य सः स्याद् विकाररीतिशः।
विष्णुस्त्राता हरिश्चन्द्रो धनुष्टङ्कार उक्तयः ॥
॥ रेफलोपसन्धिः ॥
(वा शरि, रोरि)
शरि विसर्जनीयो वा हरेश्शयः हरेः शयः ।
रेफे लोपस्तु रेफस्य धार्तराष्ट्रा रणे यथा ॥
॥यत्वसन्धिः॥
(भोभगोअघो अपूर्वस्य योऽसि)
रोर्यादेशोऽशि भूयाद् भो अपूर्वस्य भगो अघो।
यस्य लोपः हलि स्याच्च यच्छ्रेय एतयोर्यथा ॥
॥विसर्जनीयसन्धिः॥
(खरवसानयोर्विसर्जनीयः)
पदान्तस्य रेफस्य विसर्गः स्यात् परे खरि।
समः सिद्वावसिद्वौ च कृत्वापि न निबध्यते ॥
॥षत्वसन्धिः॥
(इदुदुपधस्य चाप्रत्ययस्य)
अप्रत्ययविसर्गस्य स्यादिदुपधस्य षः ।
नैष्कर्म्य निष्कृतिश्चैव धनुष्पाणिरुदाहृताः ॥
॥समासः॥
व्यासे पृथक्-पृथक् चैव समग्रपददर्शनम् ।
समासे लाघवार्थं च ह्यंशलोपो भवेत् क्वचित् ॥
द्वन्द्वे सर्वांशप्राधान्यं समुच्चयाङ्कलोपनम् ।
रामश्च लक्ष्मणश्चेति स्तो रामलक्ष्मणौ त्विह ॥
तत्पुरुषे परो मुख्यः मध्ये विभक्त्यदर्शनम् ।
पुरुषेषूत्तमश्चेति शब्दितः पुरुषोत्तमः ॥
दशरथात्मजः प्रोक्तौ दशरथस्य चात्मजः।
अरण्यमागतश्चेति स्यादारण्यागतः स्मृतः ॥
इच्छा च विजयाय स्यात् विजयेच्छा प्रकीर्तिता ।
वात्सल्येन जितो वीरः स वात्सल्यजितः स्मृतः॥
कर्मधारयवैशिष्यात् स्मितमुखं स्मितं मुखम् ।
प्रोक्तः पुरुषसिंहश्च सिंह इव हि पूरुषः॥
भुवनानां त्रयाणां यः समाहारो द्विगुस्थितः ।
त्रिभुवनं भवत्येवं स्यात् संख्यापूर्वके द्विगुः ॥
बहुव्रीहिसमासे स्यात् चान्यार्थस्य प्रधानता ।
दीघौ बाहू हि यस्य स्तो दीर्घबाहु-र्हरिः स्मृतः॥
अव्ययीभावयुक्ते च पूर्वशब्दप्रधानता ।
चक्रेण युगपद् विष्णुः सचक्रं वर्तयेदिति ॥
॥वाच्य-परिवर्तनम्॥
पूर्वस्थः पाठः (तिङन्तेन)
बालः पठति पाठं स्वं पाठः बालेन पाठ्यते ।
अहं बालमपश्यं तं बालोऽदृश्यत वै मया ॥
स्वगृहं गम्यते तेन ह्येकं फलं च खाद्यते ।
खाद्येते द्वे फले तेन खाद्यन्ते सुफलानि च ।
श्यामो भृत्यं गृहं स्वीयं गमयतीति कर्तृके ।
भृत्यः श्यामेन च ग्रामं गम्यते कर्मवाच्यके ॥
अयाचत ऋषी राम तेन रामो ह्ययाच्यत ।
विश्वामित्रेण श्रीरामं दशरथो हयाच्यत ॥
॥विभाषया॥
(कृदन्तेन)
सा पठितवती पाठं पाठो वा पठितस्तया ।
प्रस्थितवानहं चैवं वाच्यं तु प्रस्थितं मया ॥
ऋषिर्याचितवान् रामं तेन रामो हि याचितः ।
नरेशो याचितो रामं विश्वामित्रेण संस्फुटम् ॥
॥उत्तरस्थः पाठः॥
कर्तृकर्म च भावश्च वाच्यास्त्रयस्तु संस्कृते ।
तत्राकर्मकघातोस्तु रूपो न कर्मवाच्यके ॥
विभक्तिः प्रथमा यस्मिन् क्रिया तदनुसारिणी।
सा स्याद्वाच्यानुसारेण कर्तरि चैव कर्मणि ॥
कर्तृवाच्यात् क्रिया यत्र कर्मवाच्यं तु नीयते ।
तृतीया कर्तरि योज्या कर्मणि प्रथमा तथा॥
क्रियया यत्र चाभीष्टं केवलं भावबोधनम् ।
भाववाच्ये क्रिया कार्याऽन्यपुरुषैकवाचिका ॥
भावे कर्मणि वाच्ये च रूपं स्यादात्मनेपदम् ।
पठ्यते बालकेनोच्चैरुच्चैः पठति बालकः ॥
भावे कर्मणि वाच्ये च यक् सार्वधातुके भवेत् ।
गम्यते गम्येतां गम्यतागम्यत चतुष्टयम् ॥
॥ प्रेरणार्थकाः ॥
पूर्वस्थः पाठः
बाल: पठति पाठं तं बालं पाठयते गुरुः ।
बालं पाठ्यते पाठं गुरुणैवाभिभावकः ॥
रमयति शिशुं दृश्यैः शत्रून् दमयते भटः ।
जनयति न कस्यापि दुःखं श्रेष्ठो कदाचन ॥
बुद्धिमान् पठने कालं यापयति दिने दिने ।
दापयति नपेणैव दानं च सज्जनो मुदा ॥
पाययति शिशं दुग्धं विश्वं पालयते हरिः ।
अध्यापयति छात्रं च वेदं वाचयते गुरुः ॥
सज्जनाद् दूषयन्त्येव घातयन्ति पशून् खलाः ।
धीमद्भिः पाठ्यते बालो विज्ञेः सिद्धिश्च लभ्यते ॥
॥ उत्तरस्यः पाठः ॥
कार्य तु कारयत्येव यदान्येन प्रयोजकः ।
घातो रूपं तदा योज्यं णिजन्तं प्रेरणार्थकम् ॥
णिजन्ताः धातवः सर्व उभयपदिनस्तथा।
भवतिवत् परस्मैः स्युः सेवतेवत् तथात्मने ॥
अन्त्येकश्च स्वरस्यात्र वृद्धिरयादिसन्धियुत् ।
अकारस्योपधास्थस्य वृद्धिर्णिचि तथा भवेत् ॥
उपधावर्तिनः स्याद्धि गुणो ह्रस्वस्वरस्य च ।
पाठं च पाठयत्याशु लेखयति गुरुर्यथा ॥
कर्तरि मूलधातोस्तु तृतीया प्रेरणागमे ।
नृपो भृत्येन कार्यानि कारयति न संशयः ॥
गतिप्रत्ययवसानार्थे द्वितीया योजयेन् मतौ।
पुत्रमन्नं यथामाता भोजयति सुहर्षिता ॥
यथात्मने णिजन्तश्च स्यात् परस्मैपदे तथा।
दर्शयति यथा प्रोक्तं दर्शयते तथेरितम् ॥
इकारस्यैव चान्तस्य घातोर्णिजन्तकस्य हि।
भावे कर्मणि लोप: स्यात् पाठ्यते कार्यते यथा ॥
गम्रम् क्म्नम् तथा शमदम् जन् त्वर् घट् व्यय् पदादिषु ।
अकारस्योपधास्थस्य णिचि वृद्धिश्च बाध्यते ॥
आकारान्तस्य धातोस्तु णिच् स्यात् पकारपूर्वकः ।
स्थापयति यथा, किन्तु पाययति तत्समम् ॥
चुरादिगणधातोस्तु रूपं णिचि भवेत् समम् ।
गणयति च सा कन्या गणयति गुरुस्तया ॥
॥ स्त्रीप्रत्ययाः ॥
उदाहरणमात्रं हि बालः प्राक् च पठेत् सुखम् ।
सूत्रांशस्येह निर्देशः पश्चादर्थाय केवलम् ॥
टाप् डाप् चाप् ङीप् च ङीन् ङीषुङिति स्त्रीप्रत्ययाः स्मृताः ।
योज्या अनित्यलिङ्गयां हि स्त्रीत्वार्थ च संस्कृते ॥
अजादौ च ह्यकारान्ते स्त्रीत्वार्थ टाप नियोजयेत् ।
अजा बाला कृशा वत्सा मूषिका चटका यथा ॥
पूर्वेस्यात् प्रत्ययस्थात् कात् तत्रेदप्यसुपो भवेत् ।
यथा च बालिका ज्ञेया वर्जयित्वाष्टकादिकान् ॥
जातौ जातेरन्ताङ्ङीष् नाजादेः तत्र तद् भवेत् ।
यथा हंसी कुरङ्गी च वर्जिताः कोकिलादयः॥
स्त्रीत्वार्थमूङ् नियोज्यः स्यात्तुदन्ताच्च यथा कुरुः।
न रज्वादेर्यथा रज्जुः जानुर्हनुः कमण्डलुः ॥
॥ लिङ्गानुशासनम् ॥
प्रत्ययान्तस्य शब्दस्य चान्त्यवर्णक्रमेण हि।
लिङ्गानुशासनं स्वल्पं बालबोधाय कथ्यते ॥
सामान्याः नियमा एते शिक्षारम्भोपकारकाः ।
नोक्ता अत्रापवादाश्च तेऽग्रे योज्या बुधैरिह ॥
॥ स्त्रीलिङ्गाधिकारः ॥
स्त्रियां तल्प्रत्ययान्ताश्च शुक्लता विप्रता यथा ।
टापङ्न्ताः यथा विद्या शोभा मेधा कुरुस्तथा ॥
क्तिन्नन्नस्तू यथाभक्तिः वर्ज्य जातिः भवेत् स्त्रियाम् ।
भिन्यन्तास्तु यथा भूमिः वर्ज्य वह्निश्च पुंसि सः ॥
य्वन्तमेकाक्षरं चैव यथा श्रीः भूः भवेत् स्त्रियाम् ।
ईकारान्ता यथा गौरी लक्ष्मी देवो नदी यथा॥
समाहारद्विगूक्तो च ह्यकार: ईप्युतः स्त्रियाम् ।
पंचवटीत्रिलोकीवत् पात्राद्यन्तादृते भवेत् ॥
दुहिता मातरो स्त्रीत्वे स्वसृयातृननान्दरः ।
ऋकारान्ताश्च पञ्चैते तथा प्रतिपादादयः ॥
विद्युद्वल्लीनिशावीणादिग्भ्रूह्रीसरिदादयः ।
आविंशति नवत्यन्ताः स्युः संख्यावाचकाः स्त्रियाम्॥
॥ पुल्लिङ्गाधिकारः ॥
घञब्धाच्प्रत्ययान्तास्तु यथा भावो भवो जयः ।
भवेयुः पुंसि वै वर्ज्य क्लीबं भयं मुखादिकम् ॥
इत्थं पाकः करस्त्यागो विस्तरो गोचरो गरः।
विनयः संचयः पुंसि चय इत्यादयः स्मृताः ॥
नकारान्ता यथा राजन् चात्मन् पुंसि ह्युदाहृताः।
वर्ज्य मन्प्रत्ययान्ताश्च यथा कर्मन् नपुंसकम् ॥
कि-नङ्न्ताः निधिः प्रश्नः शब्दाश्च देववाचकाः ।
बलिः करस्तथा पुंसि सेमनज् महिमादयः ॥
उकारान्तो भवेत् पुंसि प्रायो यथा विभुः प्रभुः ।
वर्ज्यं धेनुः तनुः रज्जू रेण्वादयश्च ते स्त्रियाम् ॥
पुल्लिङ्गे स्यूरकारान्ताः क-ट-ण-थोपधास्तथा।
न-प-भ-मोपधाश्चैव य-र-ष-सोपधाश्च ये ॥
इत्यमुदाहृताः पुंसि कल्कश्व स्तवको घटः ।
गुणो गणश्च पाषाणो रघो ग्रन्थ इनस्तथा ॥
फेनो दीपश्च सर्पश्च स्तम्भः सोमो हयः क्षुरः।
अकुरश्च वृषो वृक्षो वत्सश्च वायसस्तथा ॥
पुंसि गण्ड: करो दन्त ओष्ठः कण्ठो नखः स्तनः।
प्रायस्तदर्थकाश्चापि वर्जयित्वा च दीधितिः ॥
अक्षता आसवो दारा लाजा नित्यं तथैव हि।
स्युर्बहुवचनान्तश्च पुल्लिङ्ग्यैव प्रकीर्तितः ॥
स्वर्गो यागो गिरिर्मेघश्चाब्धिर्दुसमयो ह्यसिः ।
शरः शत्रु सपर्यायाः पुंसि वर्ज्यदिवादयः ॥
तत्र त्रिविष्टपं चाभ्रं स्तः केवलं नपुंसके ।
स्त्री-पुंसोः स्यादिषुः शब्दः स्वर्गार्थकः स्वरव्यये ।
ऋतुर्मासो रसो वर्णः शब्दो वायुरहिर्नरः ।
अग्निस्तदर्थकाः पुंसि किन्तु वर्षाशरत् स्त्रियाम् ॥
॥ नपुंसकलिङ्गाधिकारः ॥
क्लीबे भावे ल्युडन्ताः स्युः यथा ज्ञानं च भाषणम् ।
भावे निष्ठा तदन्ताश्च गीतं च हसितं यथा ॥
त्व-ष्यञौ तद्धिती क्लीबे शुक्लत्वं शैल्यमीदृशम् ।
प्राण्यङ्गे द्वन्द्व एकत्वं पाणिपादं यथेरितम् ॥
इसुसन्ताः यथा सर्पिः हविः धनुः नपुंसके।
न वाच्यार्चिः चद्धिस्तत्र चेयंवार्चिः छदिस्त्रियाम् ॥
क्लीबे स्युः लोपधाः शब्दाः कुशलं च स्थलं यथा ।
न तालस्तरलश्चैवं शीलः शीलं तलस्तलम् ॥
थद्यढग्यगजण्वुच्छसंयुक्ता भावकर्मणि ।
क्लीबे सन्ति यथा सख्यं हसनं शायितं तथा ॥
शुक्लत्वं चाधिपत्यं च शोकल्यं द्वैहायनं च वै।
पितापुत्रकमौष्ट्रं च स्तेयं कापेयमीदृशम् ॥
क्लीवे द्वयच्क: ह्यसन्तः स्यात् यथा यशो मनस्तपः ।
उष्भावान्तो धनुष्वक्च त्विष्भागान्तो हविष्यथा ॥
अन्भागान्ताः यथा नामन् चर्बनर्वन् नपुंसके ।
तत्रैवाचिष् स्त्रियां स्याद्धि वेधसः पुंसि भवेत्तथा ॥
क्लीवे च डयट्तयप्युक्ताः नृदेव्यं द्वितयं यथा।
त्रन्नन्ताश्च यथा पात्रं वर्ज्यं छात्रादयस्तथा ॥
शब्दानपुंसके स्युस्ते ये न पुंसि न च स्त्रियाम् ।
यथा वृन्दमरण्यं खं पर्णं श्वभ्रं हिमं जलम् ॥
मांसं च रुधिरं चैव शीतमुष्णं बलं हलम् ।
द्रविणमक्षि मुखं शुल्ब लोहं दुःखं सुखं तथा ॥
शुभाशुभे च पुष्पं च लवणमनुलेपनम् ।
एते शब्दास्तथा प्रायस्तदर्थकाः नपुंसके।
तत्रैवावटवी प्रीतिः मुद्दृश् वया शुषिस्तथा।
दृष्टिश्च मिहिका ज्ञेयाः न क्लीबेऽपि तु ते स्त्रियाम् ॥
॥ उभयलिङ्गाधिकारः ॥
॥ पुं-स्त्रीलिङ्गाधिकारः ॥
गोमणियष्टिमुष्टयादिः त्रुटिर्मांसमरीचयः ।
स्त्रीपुंसो स्युस्तथा वस्तिः पाटलिश्चैव शाल्मलिः॥
उर्मिर्मृत्युस्तिथिर्बाहू रेणुः श्रोणिरिषुस्तथा।
अपत्यतद्धितान्ताश्च स्त्रीपुंसोस्तु विशेषतः ॥
॥ पुन्नपुंसकाधिकारः ॥
ऐरावतो धृतो भूतः मुस्तो बुतश्च लोहितः ।
पुन्नपुंसकयोः ज्ञेया क्ष्वेलित: पुस्तकस्तथा ।
शीलं मूलं तलं शूलं मङ्गलं कुशलं तथा ।
ब्रह्मन् सूत्रं पवित्रं च पात्रं पुंसि नपुंसके ॥
रामो यद्धि पपाठ स्वेन गुरुणा लोकाय शिक्षाशयात् ।
सूर्यस्याभ्युदयेऽपठीच्च सुकृती प्राक्चापठत् पूर्वजः ॥
विद्येच्छुश्च पठिष्यतीह पठिता चाऽग्रेऽपि भावीजनः ।
सद्यो वै पठतीति पाठकसुधीधार्यं तदेकाक्षरम् ॥